(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.193. अध्यायः 193
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रतिकलौ भविष्यल्लोकवृत्तान्तकथनम् ॥ 1 ॥ कलियगान्ते कल्कित्वेनावतरिष्यता हरिणा दुष्टजनसंहारः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-193-0x(2395)(23475)
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्।
पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम् ॥ 3-193-1(23476)
युधिष्ठिर उवाच। 3-193-2x(2396)
आश्चर्यभूतं भवतः श्रुतं नो वदतांवर।
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥ 3-193-2(23477)
अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम।
समाकुलेषु धर्मेषु किंनु शेषं भविष्यति ॥ 3-193-3(23478)
किंवीर्या मानवास्तत्रकिमाहारविहारिणः।
किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ 3-193-4(23479)
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम्।
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ 3-193-5(23480)
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत।
रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः ॥ 3-193-6(23481)
शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च।
अनुभूतं च राजेनद्रदेवदेवप्रसादजम् ॥ 3-193-7(23482)
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ।
कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ 3-193-8(23483)
कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः।
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ ॥ 3-193-9(23484)
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः।
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ 3-193-10(23485)
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति।
तामसं युगमासाद्य तदा भरतसत्तम ॥ 3-193-11(23486)
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति।
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव ॥ 3-193-12(23487)
मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर ॥ 3-193-13(23488)
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः।
सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः ॥ 3-193-14(23489)
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति।
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ॥ 3-193-15(23490)
विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति।
लोभमोहपरा मूढाः कामासक्ताश् मानवाः ॥ 3-193-16(23491)
वैरबद्धा भविष्यन्ति परस्परवधैषिणः।
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्ते परस्परम् ॥ 3-193-17(23492)
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः।
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः ॥ 3-193-18(23493)
ईदृशो भविता लोको युगान्ते पर्युपस्थिते।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः ॥ 3-193-19(23494)
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये।
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ॥ 3-193-20(23495)
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः।
तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये ॥ 3-193-21(23496)
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ 3-193-22(23497)
सरित्तीरेषु कुद्दालैर्वापयिष्यनति चौपधीः।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥ 3-193-23(23498)
श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृव्रताः।
तेऽपिलोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ 3-193-24(23499)
पिता पुत्रस् भोक्ता च पितुः पुत्रस्तथैव च।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ 3-193-25(23500)
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः।
निम्नेष्वीहां करिष्यनति हेतुवादविमोहिताः ॥ 3-193-26(23501)
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुक्राः।
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥ 3-193-27(23502)
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा।
`स्त्रियोऽपि पतिपुत्रादीन्वधिष्यनति युगक्षये'।
निरुद्वेगो बृहद्बादी न निन्दामुपलप्स्यते ॥ 3-193-28(23503)
म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम्।
भविष्यति निरानन्दमनुत्सवमथो तथा ॥ 3-193-29(23504)
प्रायशः कृपणानां हि तथा बन्धुमतामपि।
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ 3-193-30(23505)
स्वल्पवीर्यबलाः स्वाधा लोभमोहपरायणाः।
तत्कथादानसंतुष्ट शिष्टानामपि बान्धवाः ॥ 3-193-31(23506)
परिग्रहंकरिष्यति मायाचारपरिग्रहाः।
संघातयन्तः तय राजानः पापबुद्धयः ॥ 3-193-32(23507)
परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ 3-193-33(23508)
अरक्षितारो लुब्धाश् मानाहंकारदर्पिताः।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ 3-193-34(23509)
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च।
भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत ॥ 3-193-35(23510)
न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते।
स्वयंग्रहा भविष्यन्ति युगान्ते समुपस्थिते ॥ 3-193-36(23511)
राजानश्चाप्यसंतुष्टाः परार्तान्मूढचेतसः।
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-37(23512)
म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः।
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते ॥ 3-193-38(23513)
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः।
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ 3-193-39(23514)
भीरुस्था शूरमानी शूरा भीरुविषादिनः।
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ 3-193-40(23515)
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम्।
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते ॥ 3-193-41(23516)
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप।
एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ 3-193-42(23517)
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा।
बार्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षये ॥ 3-193-43(23518)
ये यवान्ना जनपदा गोधूमान्नास्तथैव च।
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-44(23519)
स्वैराहाराश्च पुरुषा योपितश्च विशांपते।
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-45(23520)
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर।
श्राद्धे न देवान्न पितॄस्तर्पयिष्यन्ति मानवाः ॥ 3-193-46(23521)
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः।
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप ॥ 3-193-47(23522)
परमायुश्च भविता तदा वर्षाणि षोडश।
ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते ॥ 3-193-48(23523)
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते।
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥ 3-193-49(23524)
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति।
युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ 3-193-50(23525)
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति।
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ 3-193-51(23526)
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः।
केशशूलाः स्त्रियश्चापि भविष्यनति युगक्षये ॥ 3-193-52(23527)
म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु।
भाविन पश्चिमे काले मनुष्या नात्र संशयः ॥ 3-193-53(23528)
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्।
युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति ॥ 3-193-54(23529)
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा।
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते ॥ 3-193-55(23530)
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः।
भवितारो जनाः सर्वे संप्राप्ते तु युगक्षये ॥ 3-193-56(23531)
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः।
भविता संशयो लोके जीवितस्य हि देहिनाम् ॥ 3-193-57(23532)
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप।
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः ॥ 3-193-58(23533)
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः।
त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम् ॥ 3-193-59(23534)
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः।
यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् ॥ 3-193-60(23535)
आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ 3-193-61(23536)
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः।
कुराजभिश्च सततं करभारप्रपीडिताः ॥ 3-193-62(23537)
धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये।
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ 3-193-63(23538)
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः।
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ 3-193-64(23539)
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः।
एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः।
शूद्राश्च प्रभविष्यन्ति न द्विजा युगसंक्षये ॥ 3-193-65(23540)
आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च।
देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ 3-193-66(23541)
एडूकचिह्ना पृथिवी न देवगृहभूषिता।
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥ 3-193-67(23542)
दा रौद्रा धर्महीना मांसादाः पानपास्तथा।
भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ॥ 3-193-68(23543)
पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम्।
प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् ॥ 3-193-69(23544)
अकालवर्षी पर्जन्यो भविष्यति गते युगे।
अक्रमेण मनुष्याणां भविष्यनति तदा क्रियाः ॥ 3-193-70(23545)
विरोधमथ यास्यनति वृषला ब्राह्मणैः सह।
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात् ॥ 3-193-71(23546)
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश।
`अन्यायवर्तिनश्चापि भविष्यनति नराधिपाः' ॥ 3-193-72(23547)
निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः।
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ॥ 3-193-73(23548)
एवं पर्याकुले लोके मर्यादा न भविष्यति।
`ब्राह्मणःक्षत्रियावैश्याः परित्यक्ष्यन्ति सत्क्रियाम्'
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ 3-193-74(23549)
आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम्।
अर्थयुक्त्या प्रवात्स्यन्ति मित्रसंबन्धिबान्धवाः ॥ 3-193-75(23550)
अभावः सर्वभूतानां युगान्ते संभविष्यति।
दिशः प्रज्वलिता सर्वा नक्षत्राण्यप्रभाणि च ॥ 3-193-76(23551)
प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा।
उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ 3-193-77(23552)
षङ्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति।
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः।
कबन्धान्तर्हितो भानुरुदयास्तमने तदा ॥ 3-193-78(23553)
अकालवर्षी भगवान्भविष्यति सहस्रदृक्।
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-79(23554)
अभीक्ष्णं क्रूरवादिन्यः परुषा रदितप्रियाः।
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः ॥ 3-193-80(23555)
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये।
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥ 3-193-81(23556)
अपर्वणि महाराज सूर्यं राहुरुपैष्यति।
युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति ॥ 3-193-82(23557)
पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः।
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ 3-193-83(23558)
निर्घातवायसा नागाः शकुनाः समृगद्विजाः।
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-84(23559)
मित्रसंबन्धिनश्चापि संत्यक्ष्यनति नरास्तदा।
जनं परिजनं चापि यागान्ते पर्युपस्थिते ॥ 3-193-85(23560)
अथ देशान्दिशश्चापि पत्तनान्यापणानि च।
क्रमशः संलयिष्यन्ति युगान्ते पर्युपस्थिते ॥ 3-193-86(23561)
हा तात हा सुतेत्येवं तदा वाच सुदारुणाः।
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ 3-193-87(23562)
`मोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः।
पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये' ॥ 3-193-88(23563)
ततस्तुमुलसंघाते वर्तमाने युगक्षये।
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥ 3-193-89(23564)
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये।
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ 3-193-90(23565)
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती।
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ 3-193-91(23566)
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च।
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः।
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ 3-193-92(23567)
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः।
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥ 3-193-93(23568)
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे।
`महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप' ॥ 3-193-94(23569)
मनसा तस्य सर्वाणि वाहनान्यायुधानि च।
उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ 3-193-95(23570)
स धर्मविजयी राजा चक्रवर्ती भविष्यति।
सचेमं संकुलं लोकं प्रसादमुपनेष्यति ॥ 3-193-96(23571)
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः।
संक्षेपको हि सर्वस्य युगस्य परिवर्तकः ॥ 3-193-97(23572)
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः।
उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः ॥ 3-193-98(23573)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-193-3 शेषं जगद्भविष्यति उत्कर्षं प्राप्स्यति ॥ 3-193-5 काष्ठां अवधिम्। कृतंकृतयुगम् ॥ 3-193-8 कलुषं कलिम् ॥ 3-193-9 निर्व्याजश्छद्महीनः। उपाधिवर्जितः लोभादिहीनः। वृषइव चतुष्पात् ॥ 3-193-10 अर्धेनाधर्मेण ॥ 3-193-14 धर्मवैतंसिकाः धर्मजालिकाः धर्मजालं विस्तार्य लोकान्वञ्चयन्तीत्यर्थः ॥ 3-193-18 अन्त्या इति। चाण्डालाः क्षत्रियादिकर्म क्षत्रियादयश्चाण्डालकर्म करिष्यन्तीत्य्रथः ॥ 3-193-19 शाणी शणसूतर्जा प्रवराशाटीति ख. पाठः ॥ 3-193-26 निम्नेषु हीनेषु कर्मसु ॥ 3-193-32 पापाचारपरिग्रहा इति ध. पाठः ॥ 3-193-37 परार्थान्परधनानि ॥ 3-193-38 हस्तो हस्तं परिमुषेद्धस्तवदेकोदरजोपि भ्राता भ्रातरं वञ्चयेदेव ॥ 3-193-41 एकाहार्यं युगं सर्वमिति झ. पाठः। एकहार्यं एकविधमेव मांसशाकादिकमाहारमर्हतीति तथा। भक्ष्याभक्ष्यविभागो नास्तीत्यर्थः ॥ 3-193-42 एकवर्णः वर्णविभागनाशनात् ॥ 3-193-43 न रक्षति पिता पुत्रमिति ध. पाठः ॥ 3-193-45 खैराचारश्चेति झ. पाठः ॥ 3-193-49 प्रजास्यन्ति प्रजाः जनयिष्यन्ति ॥ 3-193-55 ज्ञानानि ज्ञेयस्वरूपाणि ॥ 3-193-56 श्चान्योन्यमभिशङ्किता इति ध. पाठः ॥ 3-193-57 संक्षयो लोक इजि ध. पाठः ॥ 3-193-59 वृषलार्दिताः शूद्रपीडिताः ॥ 3-193-60 संक्षेप्स्यते नाशं गमिष्यति ॥ 3-193-62 काका इव सर्वतः शङ्किनः नीचवृत्त्युपजीविनो वा ॥ 3-193-65 एडूकान् अस्थ्यङ्कितनानि कुड्यानि। जालूकान्पूजयिष्यन्तीति क. ध. पाठः ॥ 3-193-73 निर्विशेषाः तुल्याचारवेषाः। विष्टिकराः मृतिमदत्त्वाकारयन्ति ते ॥ 3-193-75 आचार्योपि अपनिधिः निर्धनः भर्त्स्यते धिकूक्रिते। अर्थयुक्त्या धनयोगेन नतु स्नेहेन धर्मेण वा ॥ 3-193-78 कबन्धान्तर्हितः राह्वन्तर्हितः ॥ 3-193-91 यदेति। गुरुसूर्यचन्द्राः यदा युगपत्पुष्यक्षत्रमेष्यन्ति तदा कृतयुगप्रवृत्तिरितित्यर्तः ॥ 3-193-94 सभूतः शंबलग्नामे इति ध. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.